मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ८५, ऋक् ४६

संहिता

स॒म्राज्ञी॒ श्वशु॑रे भव स॒म्राज्ञी॑ श्व॒श्र्वां भ॑व ।
नना॑न्दरि स॒म्राज्ञी॑ भव स॒म्राज्ञी॒ अधि॑ दे॒वृषु॑ ॥

पदपाठः

स॒म्ऽराज्ञी॑ । श्वशु॑रे । भ॒व॒ । स॒म्ऽराज्ञी॑ । श्व॒श्र्वाम् । भ॒व॒ ।
नना॑न्दरि । स॒म्ऽराज्ञी॑ । भ॒व॒ । स॒म्ऽराज्ञी॑ । अधि॑ । दे॒वृषु॑ ॥

सायणभाष्यम्

हे वधु श्वशुरादिषु त्वं सम्राज्ञी भव। देवृषु। देवरेष्वित्यर्थः॥४६॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८