मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ८५, ऋक् ४७

संहिता

सम॑ञ्जन्तु॒ विश्वे॑ दे॒वाः समापो॒ हृद॑यानि नौ ।
सं मा॑त॒रिश्वा॒ सं धा॒ता समु॒ देष्ट्री॑ दधातु नौ ॥

पदपाठः

सम् । अ॒ञ्ज॒न्तु॒ । विश्वे॑ । दे॒वाः । सम् । आपः॑ । हृद॑यानि । नौ॒ ।
सम् । मा॒त॒रिश्वा॑ । सम् । धा॒ता । सम् । ऊं॒ इति॑ । देष्ट्री॑ । द॒धा॒तु॒ । नौ॒ ॥

सायणभाष्यम्

समञ्जन्त्वित्येषा वरस्य दधिप्राशने वधूवरयोर्हृदयस्पर्शने वा विनियुक्ता। तथा च सूत्रितम् । समञ्जन्तु विश्वे देवा इति दध्नः प्राश्य प्रति प्रयच्छेदाज्यशेषेण वानक्ति हृदये। आ. गृ. १-८-९। इति॥

विश्वे देवाः सर्वे देवा नौ हृदयानि मानसानि समञ्जान्तु। सम्यगञ्जन्तु। अपगतदुःखादिक्लेशानि कृत्वा लौकिकवैदिकविषयेषु प्रकाशयुक्तानि कुर्वन्त्वुत्यर्थः। आपश्च समञ्जन्तु। तथा मातरिश्वा नौ हृदयानि सं दधातु। आवयोर्बुद्धीः परस्परानुकूलाः करोत्वित्यर्थः। धात च सं दधातु। देष्ट्री धात्री फलानाम्। सरस्वतीत्यर्थः। सा च सं दधातु। सन्धानं करोतु॥४७॥

वेदार्थस्य प्रकाशेन तमे हार्दं निवारयन्। पुमार्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः॥

इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तक श्री वीरबुक्कभुपाल साम्राज्य धुरन्धरेण सायणाचार्येण विरचिते माधवीये वेदार्थ प्रकाशे ऋक्संहिताभाष्ये

अष्टमाष्टके तृतीयोऽध्यायः समाप्तः॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८