मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ८६, ऋक् २

संहिता

परा॒ ही॑न्द्र॒ धाव॑सि वृ॒षाक॑पे॒रति॒ व्यथि॑ः ।
नो अह॒ प्र वि॑न्दस्य॒न्यत्र॒ सोम॑पीतये॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥

पदपाठः

परा॑ । हि । इ॒न्द्र॒ । धाव॑सि । वृ॒षाक॑पेः । अति॑ । व्यथिः॑ ।
नो इति॑ । अह॑ । प्र । वि॒न्द॒सि॒ । अ॒न्यत्र॑ । सोम॑ऽपीतये । विश्व॑स्मात् । इन्द्रः॑ । उत्ऽत॑रः ॥

सायणभाष्यम्

हे इन्द्र त्वमत्यन्तं व्यथिश्चलितो वृषाकपेर्वृषाकपिं परा धावसि। प्रतिगच्छसि। अन्यत्र सोमपीतये सोमपानाय नो अह नैव च प्र विन्दसि। प्रगच्छसीत्यर्थः। सोऽयमिन्द्रो विश्वस्मादुत्तरः॥२॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः