मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ८६, ऋक् ४

संहिता

यमि॒मं त्वं वृ॒षाक॑पिं प्रि॒यमि॑न्द्राभि॒रक्ष॑सि ।
श्वा न्व॑स्य जम्भिष॒दपि॒ कर्णे॑ वराह॒युर्विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥

पदपाठः

यम् । इ॒मम् । त्वम् । वृ॒षाक॑पिम् । प्रि॒यम् । इ॒न्द्र॒ । अ॒भि॒ऽरक्ष॑सि ।
श्वा । नु । अ॒स्य॒ । ज॒म्भि॒ष॒त् । अपि॑ । कर्णे॑ । व॒रा॒ह॒ऽयुः । विश्व॑स्मात् । इन्द्रः॑ । उत्ऽत॑रः ॥

सायणभाष्यम्

हे इन्द्र त्वं प्रियमिष्तम् पुत्रं यमिमं वृषाकपिमभिरक्षसि परिपालयसि अस्यैनम् वृषाकपिम् । द्वितीयार्थे षष्ठी। मराहयुर्वराहमिच्छञ्श्वानु क्षिप्रं बिंभिषत्। भक्षयतु। अपि च कर्णे ग्रुह्णात्विति शेषः। श्वानो हि वराहमिच्छन्ति। सिद्धमन्यत्॥४॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः