मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ८६, ऋक् ५

संहिता

प्रि॒या त॒ष्टानि॑ मे क॒पिर्व्य॑क्ता॒ व्य॑दूदुषत् ।
शिरो॒ न्व॑स्य राविषं॒ न सु॒गं दु॒ष्कृते॑ भुवं॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥

पदपाठः

प्रि॒या । त॒ष्टानि॑ । मे॒ । क॒पिः । विऽअ॑क्ता । वि । अ॒दू॒दु॒ष॒त् ।
शिरः॑ । नु । अ॒स्य॒ । रा॒वि॒ष॒म् । न । सु॒ऽगम् । दुः॒ऽकृते॑ । भु॒व॒म् । विश्व॑स्मात् । इन्द्रः॑ । उत्ऽत॑रः ॥

सायणभाष्यम्

हे मह्यमिन्द्राण्यै तष्टानि यजमानैः कल्पितानि प्रिया प्रियाणि व्यक्ता व्यक्तान्याज्यैर्विशेषेणाक्तानि हवींषि कश्चिद्वृषाकपेर्विषये वर्तमानः कपिर्व्य दुदुषत्। दूषयामास। ततोऽहमस्य तत्कपिस्वामिनो वृषाकपेः शिरो नु क्षिप्रं राविषम्। लुनीयाम्। दुष्कृते दुष्टस्य कर्मणः कर्त्रे वृषाकपयेऽस्मै सुगं सुखम् न भुवम्। अहं न भवेयम्। अस्मै सुखप्रदात्री न भावामीत्यर्थः। अस्या मम पतिरिन्द्रो विश्वस्मादुत्तरः॥५॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः