मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ८६, ऋक् ६

संहिता

न मत्स्त्री सु॑भ॒सत्त॑रा॒ न सु॒याशु॑तरा भुवत् ।
न मत्प्रति॑च्यवीयसी॒ न सक्थ्युद्य॑मीयसी॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥

पदपाठः

न । मत् । स्त्री । सु॒भ॒सत्ऽत॑रा । न । सु॒याशु॑ऽतरा । भु॒व॒त् ।
न । मत् । प्रति॑ऽच्यवीयसी । न । सक्थि॑ । उत्ऽय॑मीयसी । विश्व॑स्मात् । इन्द्रः॑ । उत्ऽत॑रः ॥

सायणभाष्यम्

मन्मत्तोऽन्या स्त्री नारी सुभसत्तरातिशयेन सुभगा न भुवत्। न भवति। नास्तीत्यर्थः। किञ्च मत्तोऽन्यास्त्री सुयाशुतरातिशयेन सुसुखातिशयेन सुपुत्रा वा न भवति। तथा च मन्त्रान्तरम्। ददाति मह्यं यादुरी याशूनां भोज्या शता। ऋ. १-१२६-६। इति। किञ्च मत्तोऽन्या स्त्री सक्थ्युद्यमियसी सम्भोगेऽत्यन्तमुत्क्षेप्त्री नास्ति। न मत्तोऽन्या काचिदपि नारी मैथुनेऽनुगुणं सक्थ्युद्यच्छतीत्यर्थः। मम पतिरिन्द्रो विश्वस्मादुत्तरः। उत्कृष्टः॥६॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः