मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ८६, ऋक् ७

संहिता

उ॒वे अ॑म्ब सुलाभिके॒ यथे॑वा॒ङ्ग भ॑वि॒ष्यति॑ ।
भ॒सन्मे॑ अम्ब॒ सक्थि॑ मे॒ शिरो॑ मे॒ वी॑व हृष्यति॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥

पदपाठः

उ॒वे । अ॒म्ब॒ । सु॒ला॒भि॒के॒ । यथा॑ऽइव । अ॒ङ्ग । भ॒वि॒ष्यति॑ ।
भ॒सत् । मे॒ । अ॒म्ब॒ । सक्थि॑ । मे॒ । शिरः॑ । मे॒ । विऽइ॑व । हृ॒ष्य॒ति॒ । विश्व॑स्मात् । इन्द्रः॑ । उत्ऽत॑रः ॥

सायणभाष्यम्

एवमिन्द्राण्या शप्तो वृषाकपिर्ब्रविति। उवे इति सम्बोधनार्थो निपातः। हे अम्ब मातः सुलाभिके शोभनलाभे त्वया यथैव येन प्रकारेणैवोक्तं तथैव तदङ्ग क्षिप्रं भविष्यति। भवतु। किमनेन त्वदनुप्रीतिकारिणा ग्रहेण मम प्रयोजनम्। किञ्च मे मम पितुस्त्वदीयो भसद्भग उपयुज्यताम्। किञ्च मम पितुस्त्वदीयं सक्थि चोपयुज्यताम्। किञ्च मे मम पितरमिन्द्रं त्वदीयं शिरश्च प्रियालापेन वीव यथा कोकिलादिः पक्षी तद्वद्धृष्यति। हर्षयतु। मम पितेन्द्रो विश्वस्मादुत्तरः॥७॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः