किं सु॑बाहो स्वङ्गुरे॒ पृथु॑ष्टो॒ पृथु॑जाघने ।
किं शू॑रपत्नि न॒स्त्वम॒भ्य॑मीषि वृ॒षाक॑पिं॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥
किम् । सु॒बा॒हो॒ इति॑ सुऽबाहो । सु॒ऽअ॒ङ्गु॒रे॒ । पृथु॑स्तो॒ इति॑ पृथु॑ऽस्तो । पृथु॑ऽजघने ।
किम् । शू॒र॒ऽप॒त्नि॒ । नः॒ । त्वम् । अ॒भि । अ॒मी॒षि॒ । वृ॒षाक॑पिम् । विश्व॑स्मात् । इन्द्रः॑ । उत्ऽत॑रः ॥
क्रुद्धामिन्द्र उपशमयति। हे सुबाहो हे शोभनबाहो स्वङ्गुरे शोभनाङ्गुलिके पृथुष्टो पृथुकेशसङ्घाते पृथुजघने विस्तीर्णजघने शूरपत्नि वीरभार्ये हे इन्द्राणि त्वं नोऽस्मदीयं वृषाकपिं किमर्थमभ्यमीषि। अभिक्रुध्यसि। एकः किंशब्दः। यस्य पितेन्द्रोऽहं विश्वस्मादुत्तरः॥८॥