मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ८६, ऋक् १०

संहिता

सं॒हो॒त्रं स्म॑ पु॒रा नारी॒ सम॑नं॒ वाव॑ गच्छति ।
वे॒धा ऋ॒तस्य॑ वी॒रिणीन्द्र॑पत्नी महीयते॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥

पदपाठः

स॒म्ऽहो॒त्रम् । स्म॒ । पु॒रा । नारी॑ । सम॑नम् । वा॒ । अव॑ । ग॒च्छ॒ति॒ ।
वे॒धाः । ऋ॒तस्य॑ । वी॒रिणी॑ । इन्द्र॑ऽपत्नी । म॒ही॒य॒ते॒ । विश्व॑स्मात् । इन्द्रः॑ । उत्ऽत॑रः ॥

सायणभाष्यम्

नारी स्त्र्यतस्य सत्यस्य वेधा विधात्री वीरिणी पुत्रवतीन्द्र पत्नीन्द्रस्य भार्येन्द्राणी संहोत्रं स्म समीचीनं यज्ञं खलु समनं वा सङ्ग्रामम्। समनमिति सङ्ग्रामनामसु पठात्। अव प्रति पुरा गच्छति। महीयते। स्तोतृभिः स्तूयते च। सत्या मम पतिरिन्द्रो विश्वस्मादुत्तरः॥१०॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः