मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ८६, ऋक् १२

संहिता

नाहमि॑न्द्राणि रारण॒ सख्यु॑र्वृ॒षाक॑पेरृ॒ते ।
यस्ये॒दमप्यं॑ ह॒विः प्रि॒यं दे॒वेषु॒ गच्छ॑ति॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥

पदपाठः

न । अ॒हम् । इ॒न्द्रा॒णि॒ । र॒र॒ण॒ । सख्युः॑ । वृ॒षाक॑पेः । ऋ॒ते ।
यस्य॑ । इ॒दम् । अप्य॑म् । ह॒विः । प्रि॒यम् । दे॒वेषु॑ । गच्छ॑ति । विश्व॑स्मात् । इन्द्रः॑ । उत्ऽत॑रः ॥

सायणभाष्यम्

हे इन्द्राणि अहमिन्द्रः सख्युर्मम सखिभूताद्वृषाकपेरृते प्रियं वृषाकपिं विना न रराण। न रमे। अप्यमप्सु भवमद्भिर्वा सुसंस्कृतं प्रियं प्रीतिकरमिदमुपस्थितं हविर्देवेषु देवनां मध्ये यस्य ममेन्द्रस्य सकाशं गच्छति। यश्चाहमिन्द्रः सर्वस्मादुत्तरः। यद्वा। अयमर्थः। हे इन्द्राणी वृषाकपेः सख्युरिन्द्रादृतेऽहं वृषाकपिर्न रराण। न रमे। आन्यत्समानम्॥१२॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः