मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ८६, ऋक् १३

संहिता

वृषा॑कपायि॒ रेव॑ति॒ सुपु॑त्र॒ आदु॒ सुस्नु॑षे ।
घस॑त्त॒ इन्द्र॑ उ॒क्षणः॑ प्रि॒यं का॑चित्क॒रं ह॒विर्विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥

पदपाठः

वृषा॑कपायि । रेव॑ति । सुऽपु॑त्रे । आत् । ऊं॒ इति॑ । सुऽस्नु॑षे ।
घस॑त् । ते॒ । इन्द्रः॑ । उ॒क्षणः॑ । प्रि॒यम् । का॒चि॒त्ऽक॒रम् । ह॒विः । विश्व॑स्मात् । इन्द्रः॑ । उत्ऽत॑रः ॥

सायणभाष्यम्

हे वृषाकपायि। कामानां वर्षकत्वादभीष्टदेशिग नाच्चेन्द्रो वृषाकपिः तस्य पत्नि। यद्वा। वृषाकपेर्मम मातरित्यर्थः। रेवति धनवति सुपुत्रे शोभनपुत्रे सुस्नुषे शोभनस्नुषे हे इन्द्राणि ते तवायमिन्द्र उक्षणः सेचनसमर्थानाद्वनन्तरमेव। शीघ्रमेवेत्यर्थः। पशून्घसत्। प्राश्नातु। किञ्च काचित्करम्। कं सुखम्। तस्याचित् सङ्घः। तत्करं हविः प्रियमिष्टं कुर्विति शेषः। किञ्च ते पतिरिन्द्रो विश्वस्मादुत्तरः। तथा च यास्कः। वृषाकपायि रेवति सुपुत्रे मध्यमेन सुस्नुषे माध्यमिकया वाचा। स्नुषा साधुसादिनीति वा साधुसानिनीति वा। प्रियं कुरुष्व सुखाचयकरं हविः सर्वस्माद्य इन्द्र उत्तरः॥नि. १२-९। इति॥१३॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः