मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ८६, ऋक् १४

संहिता

उ॒क्ष्णो हि मे॒ पञ्च॑दश सा॒कं पच॑न्ति विंश॒तिम् ।
उ॒ताहम॑द्मि॒ पीव॒ इदु॒भा कु॒क्षी पृ॑णन्ति मे॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥

पदपाठः

उ॒क्ष्णः । हि । मे॒ । पञ्च॑ऽदश । सा॒कम् । पच॑न्ति । विं॒श॒तिम् ।
उ॒त । अ॒हम् । अ॒द्मि॒ । पीवः॑ । इत् । उ॒भा । कु॒क्षी इति॑ । पृ॒ण॒न्ति॒ । मे॒ । विश्व॑स्मात् । इन्द्रः॑ । उत्ऽत॑रः ॥

सायणभाष्यम्

अथेन्द्रो ब्रवीति। मे मदर्थं पञ्चदश पञ्चदशसङ्ख्याकान् विंशतिं विंशतिसङ्ख्याकांश्चोक्ष्णो वृषभान् साकं सह मम भार्ययेन्द्राण्या प्रेरिता यष्टारः पचन्ति। उतापि चाहमद्मि। तान्भक्षयामि। जग्द्वा चाहं पीव इत् स्थूल एव भवामीति शेशः॥ किञ्च मे ममोभोधौ कुक्षी पृणन्ति। सोमेन पूरयन्ति यष्टारः। सोऽहमिन्द्रः सर्वस्मादुत्तरः॥१४॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः