मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ८६, ऋक् १५

संहिता

वृ॒ष॒भो न ति॒ग्मशृ॑ङ्गो॒ऽन्तर्यू॒थेषु॒ रोरु॑वत् ।
म॒न्थस्त॑ इन्द्र॒ शं हृ॒दे यं ते॑ सु॒नोति॑ भाव॒युर्विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥

पदपाठः

वृ॒ष॒भः । न । ति॒ग्मऽशृ॑ङ्गः । अ॒न्तः । यू॒थेषु॑ । रोरु॑वत् ।
म॒न्थः । ते॒ । इ॒न्द्र॒ । शम् । हृ॒दे । यम् । ते॒ । सु॒नोति॑ । भा॒व॒युः । विश्व॑स्मात् । इन्द्रः॑ । उत्ऽत॑रः ॥

सायणभाष्यम्

अथेन्द्राणी ब्रविति। तिग्मशृङ्गस्तीक्ष्णशृङ्गो वृषभो न यथा वृषभो यूथेषु गोसङ्घेष्वन्तर्मध्ये रोरुवच्छब्दम् कुर्वन् गा आभिरमयति तथा हे इन्द्र त्वं मामभिरमयेति शेषः। किञ्च हे इन्द्र ते तव हृदे हृदयाय मन्थो दध्नो मथनवेलायाम् शब्दं कुर्वञ्शं शङ्करो भवत्विति शेषः। किञ्च ते तुभ्यम् यं सोमं भावयुर्भावमिच्छन्तीन्द्राणी सुनोति आभिषुणोति सोपि शङ्करो भवत्वित्यर्थः। मम पतिरिन्द्रो विश्वस्मादुत्तरः॥१५॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः