मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ८६, ऋक् २०

संहिता

धन्व॑ च॒ यत्कृ॒न्तत्रं॑ च॒ कति॑ स्वि॒त्ता वि योज॑ना ।
नेदी॑यसो वृषाक॒पेऽस्त॒मेहि॑ गृ॒हाँ उप॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥

पदपाठः

धन्व॑ । च॒ । यत् । कृ॒न्तत्र॑म् । च॒ । कति॑ । स्वि॒त् । ता । वि । योज॑ना ।
नेदी॑यसः । वृ॒षा॒क॒पे॒ । अस्त॑म् । आ । इ॒हि॒ । गृ॒हान् । उप॑ । विश्व॑स्मात् । इन्द्रः॑ । उत्ऽत॑रः ॥

सायणभाष्यम्

धन्व निरुदकोऽरण्यरहितो देशः। कृतन्तत्रम् कर्तनीयमरण्यम् । यद्यच्च धन्व च कृतन्त्रम् च भवति। मृगोद्वासमरण्यमेवं विधं भवति न त्वत्यन्तविपिनम् । तस्य शत्रुनिलयस्यास्मदीयगृहस्य च मध्ये कति स्वित्ता तानि योजना योजननि स्थितानि। नात्यन्तदुरे तद्भवतीत्यर्थः। अतो नेदीयसोऽतिशयेन समीपस्थाच्छत्रु निलयात् हे वृषाअकपे त्वमस्तमस्माकं गृहम् व्येहि। विशेशेणागच्छ। आगत्य च गृहान्यज्ञगृहानुपगच्छ। यतोऽमिन्द्र्ः सर्वस्मादुत्कृष्टः॥२०॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः