पुन॒रेहि॑ वृषाकपे सुवि॒ता क॑ल्पयावहै ।
य ए॒ष स्व॑प्न॒नंश॒नोऽस्त॒मेषि॑ प॒था पुन॒र्विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥
पुनः॑ । आ । इ॒हि॒ । वृ॒षा॒क॒पे॒ । सु॒वि॒ता । क॒ल्प॒या॒व॒है॒ ।
यः । ए॒षः । स्व॒प्न॒ऽनंश॑नः । अस्त॑म् । एषि॑ । प॒था । पुनः॑ । विश्व॑स्मात् । इन्द्रः॑ । उत्ऽत॑रः ॥
आगत्य प्रतिगतं वृषाकपिमिन्द्रो ब्रविति। हे वृषाकपे त्वम् पुनरेहि। अस्मान्प्रत्यागच्छ। आगते च त्वयि सुविता सुवितानि कल्याणानि त्वच्चित्तप्रीतिकराणि कर्माणि कल्पयावहै। इन्द्राण्यहं चावामुभौ पर्यालोच्य कुर्याव। किञ्च यः स्वप्ननंशन उदयेन सर्वस्य प्राणिनह् स्वप्नानाम् नाशयितादित्यः स एष त्वं पथा मारेगेणास्तमात्मीयमावासं पुनरेषि। गच्छसि। यतोऽहमिन्द्रो विश्वस्मादुत्तरः। तथा यास्कः। सुप्रसूतानि वः कर्माणि कल्पयावहै य एष स्वप्नसंशनः। स्वप्नान्ना तयस्यादित्य उदयेन सोऽस्तमेषि पथा पुनः। नि. १२-२८। इति॥२१॥