मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ८७, ऋक् १

संहिता

र॒क्षो॒हणं॑ वा॒जिन॒मा जि॑घर्मि मि॒त्रं प्रथि॑ष्ठ॒मुप॑ यामि॒ शर्म॑ ।
शिशा॑नो अ॒ग्निः क्रतु॑भि॒ः समि॑द्ध॒ः स नो॒ दिवा॒ स रि॒षः पा॑तु॒ नक्त॑म् ॥

पदपाठः

र॒क्षः॒ऽहन॑म् । वा॒जिन॑म् । आ । जि॒घ॒र्मि॒ । मि॒त्रम् । प्रथि॑ष्ठम् । उप॑ । या॒मि॒ । शर्म॑ ।
शिशा॑नः । अ॒ग्निः । क्रतु॑ऽभिः । सम्ऽइ॑द्धः । सः । नः॒ । दिवा॑ । सः । रि॒षः । पा॒तु॒ । नक्त॑म् ॥

सायणभाष्यम्

रक्षोहणमिति पञ्चविंशत्यृचं त्रृतीयं सूक्तम्। पायुर्नाम भारद्वाज ऋषिः। द्वाविंशाद्याश्चतस्रोऽनुष्टुभः। शिष्टा एकविंशतिस्त्रिष्टुभः। रक्षोहाग्निर्देवता। तथा चानुक्रान्तम्। रक्षोहणं पञ्चाधिकापायुराग्नेयं राक्षोघ्नं चतुरनुष्टुबन्तमिति। गतः सूक्तविनियोगः। अङ्गाराभिविहरणे परि त्वाग्न इत्येषा जप्या। सूत्रितं च। धिष्ण्यावतामित्याद्ना परित्वाग्ने पुरं वयमित्यन्तेन। आ. ५-१३॥

रक्षोहनं रक्षसा हन्तारं वाजिनं बलवन्तमन्नवन्तं वाग्निमा जिघर्मि। घृतेनाजुहोमि। किञ्च मित्रं यजमानानां सखायं प्रथिष्ठं पृथुतमं शर्म गृहमुप यामि। उपगच्छामि। सोऽयमग्निः शिशानो ज्वालास्तीक्ष्णीकुर्वन् क्रतुभिः कर्मपरैः पुरुषैः समिद्धः प्रज्वालितो भवति। किञ्च सोऽग्निर्नोऽस्मान्दिवाहनि रिषो हिंसकाद्रक्षसः पातु। रक्षतु। सोऽग्निर्नक्तं रात्रौ चास्मान्रक्षसः पातु॥१॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः