मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ८७, ऋक् ३

संहिता

उ॒भोभ॑यावि॒न्नुप॑ धेहि॒ दंष्ट्रा॑ हिं॒स्रः शिशा॒नोऽव॑रं॒ परं॑ च ।
उ॒तान्तरि॑क्षे॒ परि॑ याहि राज॒ञ्जम्भै॒ः सं धे॑ह्य॒भि या॑तु॒धाना॑न् ॥

पदपाठः

उ॒भा । उ॒भ॒या॒वि॒न् । उप॑ । धे॒हि॒ । दंष्ट्रा॑ । हिं॒स्रः । शिशा॑नः । अव॑रम् । पर॑म् । च॒ ।
उ॒त । अ॒न्तरि॑क्षे । परि॑ । या॒हि॒ । रा॒ज॒न् । जम्भैः॑ । सम् । धे॒हि॒ । अ॒भि । या॒तु॒ऽधाना॑न् ॥

सायणभाष्यम्

हे उभयाविन्नुभाभ्यां दंष्ट्राभ्यां युक्ताग्ने त्वं हिंस्रो राक्षनानां हिंसकस्त्वमुभोभे दंष्ट्रा दंष्ट्रे शिशानस्तीक्ष्णीकुर्वन्नुप धेहि। वधार्हेषु राक्षसेषु प्रतिष्ठापय। किञ्चावरं परं च जगद्रक्ष। उतापि च हे राजन् दीप्ताग्ने त्वमन्तरिक्षे स्थितान्राक्षसान्परि याहि। परिगच्छ। परिगत्य च तान्यातुधानान्राक्षसाञ्जम्भैर्भक्षनसाधनभूताछिर्द्रंष्ट्राभिरभि सं धेहि। संयोजय भक्षयेत्यर्थः॥३॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः