मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ८७, ऋक् ४

संहिता

य॒ज्ञैरिषू॑ः सं॒नम॑मानो अग्ने वा॒चा श॒ल्याँ अ॒शनि॑भिर्दिहा॒नः ।
ताभि॑र्विध्य॒ हृद॑ये यातु॒धाना॑न्प्रती॒चो बा॒हून्प्रति॑ भङ्ध्येषाम् ॥

पदपाठः

य॒ज्ञैः । इषूः॑ । स॒म्ऽनम॑मानः । अ॒ग्ने॒ । वा॒चा । श॒ल्यान् । अ॒शनि॑ऽभिः । दि॒हा॒नः ।
ताभिः॑ । वि॒ध्य॒ । हृद॑ये । या॒तु॒ऽधाना॑न् । प्र॒ती॒चः । बा॒हून् । प्रति॑ । भ॒ङ्धि॒ । ए॒षा॒म् ॥

सायणभाष्यम्

हे अग्ने त्वं यज्ञैरस्मदीयैर्बलकरैर्यागैर्वाचास्मदीयया स्तुत्या चेषूर्वक्रान्बाणान् सन्नममानः सन्नमयन् शल्यांस्तासां शल्यानशनिभिर्दीप्तिभिर्दिहानस्तीक्ष्णीकुर्वन् ताभिरिषुभिर्यातुधानान्राक्षसान्हृदये विध्य। तत एषां यातुधानानां सम्बन्धिनः प्रतीचो युद्धाय त्वां प्रतिगतान्बाहून्प्रति भन्धे। प्रत्यामर्दय॥४॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः