मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ८७, ऋक् ६

संहिता

यत्रे॒दानीं॒ पश्य॑सि जातवेद॒स्तिष्ठ॑न्तमग्न उ॒त वा॒ चर॑न्तम् ।
यद्वा॒न्तरि॑क्षे प॒थिभि॒ः पत॑न्तं॒ तमस्ता॑ विध्य॒ शर्वा॒ शिशा॑नः ॥

पदपाठः

यत्र॑ । इ॒दानी॑म् । पश्य॑सि । जा॒त॒ऽवे॒दः॒ । तिष्ठ॑न्तम् । अ॒ग्ने॒ । उ॒त । वा॒ । चर॑न्तम् ।
यत् । वा॒ । अ॒न्तरि॑क्षे । प॒थिऽभिः॑ । पत॑न्तम् । तम् । अस्ता॑ । वि॒ध्य॒ । शर्वा॑ । शिशा॑नः ॥

सायणभाष्यम्

हे जातवेद उत्पन्नप्रज्ञाग्ने त्वं यत्र पृथिव्यां तिष्ठन्तमुतापि च चरन्तं यद्वान्तर्किषे पथिभिराकाशमार्गैः पतन्तं गच्छन्तं यातुधानमिदानीं सम्प्रति पश्यसि तं यातुधानमस्ता शराणां क्षेप्ता त्वं शिशानः शरांस्तीक्ष्णीकुर्वञ्शर्वा शरेण विध्य॥६॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः