मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ८७, ऋक् ७

संहिता

उ॒ताल॑ब्धं स्पृणुहि जातवेद आलेभा॒नादृ॒ष्टिभि॑र्यातु॒धाना॑त् ।
अग्ने॒ पूर्वो॒ नि ज॑हि॒ शोशु॑चान आ॒माद॒ः क्ष्विङ्का॒स्तम॑द॒न्त्वेनी॑ः ॥

पदपाठः

उ॒त । आऽल॑ब्धम् । स्पृ॒णु॒हि॒ । जा॒त॒ऽवे॒दः॒ । आ॒ऽले॒भा॒नात् । ऋ॒ष्टिऽभिः॑ । या॒तु॒ऽधाना॑त् ।
अग्ने॑ । पूर्वः॑ । नि । ज॒हि॒ । शोशु॑चानः । आ॒म॒ऽअदः॑ । क्ष्विङ्काः॑ । तम् । अ॒द॒न्तु॒ । एनीः॑ ॥

सायणभाष्यम्

उतापि च हे जातवेदोऽग्ने त्वमालब्धं हन्तुं हस्ताभ्यामरब्धं साधुं मां स्तोतारंयष्टारं वालेभानादालभमानाद्यातुधानाद्राक्षसादृष्टिभिरात्मीयैरायुधविशेषैः स्पृणुहि। पारय। रक्षेत्यर्थः। किञ्च पूर्वो मुख्यस्त्वम् शोशुचानः प्रज्वलन्नि जहि। मां हन्तुमुद्युक्तं यातुधानं मारय। किञ्च तं यातुधानमामादोऽपक्वस्य मांसस्य भक्षकाः क्ष्विङ्काः शब्दकारिण्यः। टुक्षु शब्दे। यद्वा। क्ष्विङ्का नाम पक्षिविशेषाः। एनीर्गन्त्र्योऽदन्तु। भक्षयन्तु॥७॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः