मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ८७, ऋक् ८

संहिता

इ॒ह प्र ब्रू॑हि यत॒मः सो अ॑ग्ने॒ यो या॑तु॒धानो॒ य इ॒दं कृ॒णोति॑ ।
तमा र॑भस्व स॒मिधा॑ यविष्ठ नृ॒चक्ष॑स॒श्चक्षु॑षे रन्धयैनम् ॥

पदपाठः

इ॒ह । प्र । ब्रू॒हि॒ । य॒त॒मः । सः । अ॒ग्ने॒ । यः । या॒तु॒ऽधानः॑ । यः । इ॒दम् । कृ॒णोति॑ ।
तम् । आ । र॒भ॒स्व॒ । स॒म्ऽइधा॑ । य॒वि॒ष्ठ॒ । नृ॒ऽचक्ष॑सः । चक्षु॑षे । र॒न्ध॒य॒ । ए॒न॒म् ॥

सायणभाष्यम्

ये यविष्ठ युवतमाग्ने यो यातुधानो राक्षसोऽस्मद्यज्ञविघ्नकारि यश्चान्योऽपि पिशाचादिरिदं यज्ञदूषणादि करोति स यतमः। तमबवधारणार्थम् । इहास्मिंस्त्वद्विषययागकर्मणि वर्तमानाय मह्यं प्र ब्रूहि। तं पापकाअरिणं समिधा स्वकीयेन तेजसा रभस्व। हन्तुं प्रारभस्व। तत एनं पापिष्ठं नृचक्षसो नृणां द्रष्टुस्तव चक्षुषे तेजसे रन्धय। वशं नय। तेजसा सन्दहेत्यर्थः॥८॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः