मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ८७, ऋक् ९

संहिता

ती॒क्ष्णेना॑ग्ने॒ चक्षु॑षा रक्ष य॒ज्ञं प्राञ्चं॒ वसु॑भ्य॒ः प्र ण॑य प्रचेतः ।
हिं॒स्रं रक्षां॑स्य॒भि शोशु॑चानं॒ मा त्वा॑ दभन्यातु॒धाना॑ नृचक्षः ॥

पदपाठः

ती॒क्ष्णेन॑ । अ॒ग्ने॒ । चक्षु॑षा । र॒क्ष॒ । य॒ज्ञम् । प्राञ्च॑म् । वसु॑ऽभ्यः । प्र । न॒य॒ । प्र॒ऽचे॒तः॒ ।
हिं॒स्रम् । रक्षां॑सि । अ॒भि । शोशु॑चानम् । मा । त्वा॒ । द॒भ॒न् । या॒तु॒ऽधानाः॑ । नृ॒ऽच॒क्षः॒ ॥

सायणभाष्यम्

हे अग्ने त्वं तीक्ष्णेन तिग्मेन चक्षुषा तेजसा यज्ञमस्मदीयं यागं रक्ष। पालय। किञ्च हे प्रचेतः प्रकृष्टज्ञानाग्ने प्राञ्चं प्राञ्चितारं यज्ञं वसुभ्यो वसूनामर्थाय प्रणय। प्रकर्षॆण नय। किञ्च हे नृचक्षो नृणां द्रष्टरग्ने रक्षाम्सि हिंस्रं हिंसनशीलमभि शोशुचानमभिप्रदीप्तं त्वा त्वां यातुधाना राक्षसा मा दभन्। हिंसिषुः॥९॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः