मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ८७, ऋक् १०

संहिता

नृ॒चक्षा॒ रक्ष॒ः परि॑ पश्य वि॒क्षु तस्य॒ त्रीणि॒ प्रति॑ शृणी॒ह्यग्रा॑ ।
तस्या॑ग्ने पृ॒ष्टीर्हर॑सा शृणीहि त्रे॒धा मूलं॑ यातु॒धान॑स्य वृश्च ॥

पदपाठः

नृ॒ऽचक्षाः॑ । रक्षः॑ । परि॑ । प॒श्य॒ । वि॒क्षु । तस्य॑ । त्रीणि॑ । प्रति॑ । शृ॒णी॒हि॒ । अग्रा॑ ।
तस्य॑ । अ॒ग्ने॒ । पृ॒ष्टीः । हर॑सा । शृ॒णी॒हि॒ । त्रे॒धा । मूल॑म् । या॒तु॒ऽधान॑स्य । वृ॒श्च॒ ॥

सायणभाष्यम्

हे अग्ने नृचक्षा नृणां द्रष्टा त्वं विक्षु मनुष्येषु हिंसकत्वेन वर्तमानं रक्षो राक्षसं परि पश्य। सर्वतोऽवलोकय। अवलोक्य च तस्य रक्षसस्त्रीण्यग्राग्राणि शिरांसि प्रति शृणीहि। छिन्ध्धीत्यर्थः। ततस्तस्य रक्षसः पृष्टीः पार्श्वस्थान्राक्षसानपि हरसा स्वकीयेन तेजसा शृणीहि। मारय। एवं त्रेधा यातुधानस्य तस्य राक्षसस्य मूलं पादं वृश्च। छिन्द्धि॥१०॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः