मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ८७, ऋक् १४

संहिता

परा॑ शृणीहि॒ तप॑सा यातु॒धाना॒न्परा॑ग्ने॒ रक्षो॒ हर॑सा शृणीहि ।
परा॒र्चिषा॒ मूर॑देवाञ्छृणीहि॒ परा॑सु॒तृपो॑ अ॒भि शोशु॑चानः ॥

पदपाठः

परा॑ । शृ॒णी॒हि॒ । तप॑सा । या॒तु॒ऽधाना॑न् । परा॑ । अ॒ग्ने॒ । रक्षः॑ । हर॑सा । शृ॒णी॒हि॒ ।
परा॑ । अ॒र्चिषा॑ । मूर॑ऽदेवान् । शृ॒णी॒हि॒ । परा॑ । अ॒सु॒ऽतृपः॑ । अ॒भि । शोशु॑चानः ॥

सायणभाष्यम्

हे अग्ने यातुधानांस्तपसा तापेन परा शृणीहि। मारय। किञ्च रक्शॊ हरसा त्वदीयेनौष्ण्येन परा शृणीहि। किञ्च मूरदेवान्मारव्यापारान्राक्षसानर्चिषा स्वकीयेन तेजसा परा शृणीहि। अपि चासुतृपो मनुष्याणामुसुभिस्तृप्ता ये तानपि परा शृणीहीत्यर्थः॥१४॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः