मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ८७, ऋक् १६

संहिता

यः पौरु॑षेयेण क्र॒विषा॑ सम॒ङ्क्ते यो अश्व्ये॑न प॒शुना॑ यातु॒धानः॑ ।
यो अ॒घ्न्याया॒ भर॑ति क्षी॒रम॑ग्ने॒ तेषां॑ शी॒र्षाणि॒ हर॒सापि॑ वृश्च ॥

पदपाठः

यः । पौरु॑षेयेण । क्र॒विषा॑ । स॒म्ऽअ॒ङ्क्ते । यः । अश्व्ये॑न । प॒शुना॑ । या॒तु॒ऽधानः॑ ।
यः । अ॒घ्न्यायाः॑ । भर॑ति । क्षी॒रम् । अ॒ग्ने॒ । तेषा॑म् । शी॒र्षाणि॑ । हर॑सा । अपि॑ । वृ॒श्च॒ ॥

सायणभाष्यम्

यो यातुधानो राक्षसः पौरुषेयेण पुरुषसम्बन्धिना क्रविषा मांसेन समङ्क्ते आत्मानं सङ्गमयति। याश्चाश्व्येनाश्वसमूहेन। तदीयेन मांसेनेत्यर्थः। आत्मानं सङ्गमयति। यो वा यातुधानोऽन्येन पशुनात्मानं सङ्गमयति। यो वा यातुधानोऽघ्न्याया गोः क्षीरं भरति हरति। हे अग्ने त्वं तेषां सर्वेषामपि राक्षसानां शीर्षाणि शिरांसि हरसा त्वदीयेन तेजसा वृश्च। छिन्ध्धि॥१६॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः