मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ८७, ऋक् १७

संहिता

सं॒व॒त्स॒रीणं॒ पय॑ उ॒स्रिया॑या॒स्तस्य॒ माशी॑द्यातु॒धानो॑ नृचक्षः ।
पी॒यूष॑मग्ने यत॒मस्तितृ॑प्सा॒त्तं प्र॒त्यञ्च॑म॒र्चिषा॑ विध्य॒ मर्म॑न् ॥

पदपाठः

सं॒व॒त्स॒रीण॑म् । पयः॑ । उ॒स्रिया॑याः । तस्य॑ । मा । अ॒शी॒त् । या॒तु॒ऽधानः॑ । नृ॒ऽच॒क्षः॒ ।
पी॒यूष॑म् । अ॒ग्ने॒ । य॒त॒मः । तितृ॑प्सात् । तम् । प्र॒त्यञ्च॑म् । अ॒र्चिषा॑ । वि॒ध्य॒ । मर्म॑न् ॥

सायणभाष्यम्

हे नृचक्षो नृणां द्रष्टरग्ने उस्रियायाः गोः। उस्रियाहीति गोनामसु पाठात्। संवत्सरीणं संवत्सरेण भवं यत्पयोऽस्ति यातुधानो राक्षसस्तसमाशीत्। तत्पयो मा भक्षयतु। किञ्च यतमो यो राक्षसः पीयूशं पीयूषेण। विभक्तिव्यत्ययः। अस्मदीयाया गोः पयसा तितृप्सात् आत्मानं तर्पयितुमिच्छति तं प्रत्यञ्चं युद्धायात्मानं प्रतिगतं राक्षसं मर्मन् मर्मणि प्राणवियोगस्थानेऽर्चिषा स्वकीयेन तेजसा विध्य। ताडय। मारयेत्यर्थः॥१७॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः