मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ८७, ऋक् १८

संहिता

वि॒षं गवां॑ यातु॒धाना॑ः पिब॒न्त्वा वृ॑श्च्यन्ता॒मदि॑तये दु॒रेवा॑ः ।
परै॑नान्दे॒वः स॑वि॒ता द॑दातु॒ परा॑ भा॒गमोष॑धीनां जयन्ताम् ॥

पदपाठः

वि॒षम् । गवा॑म् । या॒तु॒ऽधानाः॑ । पि॒ब॒न्तु॒ । आ । वृ॒श्च्य॒न्ता॒म् । अदि॑तये । दुः॒ऽएवाः॑ ।
परा॑ । ए॒ना॒न् । दे॒वः । स॒वि॒ता । द॒दा॒तु॒ । परा॑ । भा॒गम् । ओष॑धीनाम् । ज॒य॒न्ता॒म् ॥

सायणभाष्यम्

हे अग्ने यातुधाना राक्षसा गवां पशूनां गृहे स्थितं विषं पिबन्तु। किञ्चादितयेऽदित्यर्थं दुरेवा दुस्तरा यातुधाना आ वृष्च्यन्ताम् । त्वदीयैरायुधैराच्छित्यन्ताम्। किञ्च सविता देव एनान्राक्षसान्परा ददातु। सिम्हेभ्यः प्रयच्छतु। अपि च तेऽमी राक्षसा ओषधीनां स्वभुतं भागं भजनीयमन्नं परा जयन्ताम्। लभन्तामित्यर्थः॥१८॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः