मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ८७, ऋक् १९

संहिता

स॒नाद॑ग्ने मृणसि यातु॒धाना॒न्न त्वा॒ रक्षां॑सि॒ पृत॑नासु जिग्युः ।
अनु॑ दह स॒हमू॑रान्क्र॒व्यादो॒ मा ते॑ हे॒त्या मु॑क्षत॒ दैव्या॑याः ॥

पदपाठः

स॒नात् । अ॒ग्ने॒ । मृ॒ण॒सि॒ । या॒तु॒ऽधाना॑न् । न । त्वा॒ । रक्षां॑सि । पृत॑नासु । जि॒ग्युः॒ ।
अनु॑ । द॒ह॒ । स॒हऽमू॑रान् । क्र॒व्य॒ऽअदः॑ । मा । ते॒ । हे॒त्याः । मु॒क्ष॒त॒ । दैव्या॑याः ॥

सायणभाष्यम्

हे अग्ने त्वं सनाच्चिरादेवारभ्य यातुधानान्राक्षसान्मृनसि। बाधसे। तथापि त्वा त्वां पृतनासु सङ्ग्रामेषु रक्षाम्सि राक्शसा न जिग्युः। नाजयन्। किञ्च स त्वमधुनान्वनुक्रमेण समूरान् मूलेन सहितान् मारकव्यापारेण युक्तान् क्रव्यादो मांसभक्षकान्राक्षसान्दह। तेजसा भस्मीकुरु। किञ्च तव सम्बन्धिनो दैव्याया दैव्याद्धेत्या आयुधात्ते यातुधाना मा मुक्षत। मुइक्ता मा भूवन्॥१९॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः