मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ८७, ऋक् २०

संहिता

त्वं नो॑ अग्ने अध॒रादुद॑क्ता॒त्त्वं प॒श्चादु॒त र॑क्षा पु॒रस्ता॑त् ।
प्रति॒ ते ते॑ अ॒जरा॑स॒स्तपि॑ष्ठा अ॒घशं॑सं॒ शोशु॑चतो दहन्तु ॥

पदपाठः

त्वम् । नः॒ । अ॒ग्ने॒ । अ॒ध॒रात् । उद॑क्तात् । त्वम् । प॒श्चात् । उ॒त । र॒क्ष॒ । पु॒रस्ता॑त् ।
प्रति॑ । ते । ते॒ । अ॒जरा॑सः । तपि॑ष्ठाः । अ॒घऽशं॑सम् । शोशु॑चतः । द॒ह॒न्तु॒ ॥

सायणभाष्यम्

हे अग्ने त्वं नोऽस्मानधराद्दक्षिणतः। उत्तरादिदिक्समभिव्याहारादधरशब्दोऽत्र दक्षिणदिक्पर इति विज्ञायते। उदक्तादुत्तरतश्च रक्ष। पाहि। उतापि च हे अग्ने त्वं पश्चात्पश्चिमतः पुरस्तात्पूर्वतश्च नोऽस्मान्रक्ष। चतसृषु दिक्ष्ववस्थितेभ्यो राक्षसेभ्योऽस्मान्पाहीत्यर्थः। किञ्च ते तव सम्बन्धिनस्ते तपिष्था अतिशयेन तप्यमाना अजरासो जरावर्जिताः शोशुचतो ज्वलन्तः सन्तो रश्मयोऽघशंसं पापशंसकं राक्षसं प्रति दहन्तु। भस्मीकुर्वन्तु॥२०॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः