मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ८७, ऋक् २२

संहिता

परि॑ त्वाग्ने॒ पुरं॑ व॒यं विप्रं॑ सहस्य धीमहि ।
धृ॒षद्व॑र्णं दि॒वेदि॑वे ह॒न्तारं॑ भङ्गु॒राव॑ताम् ॥

पदपाठः

परि॑ । त्वा॒ । अ॒ग्ने॒ । पुर॑म् । व॒यम् । विप्र॑म् । स॒ह॒स्य॒ । धी॒म॒हि॒ ।
धृ॒षत्ऽव॑र्णम् । दि॒वेऽदि॑वे । ह॒न्तार॑म् । भ॒ङ्गु॒रऽव॑ताम् ॥

सायणभाष्यम्

हे सहस्य सहसे हित सहसो जात वागेन् पुरं पूरकं विप्रं मेधाविनं धृषद्वर्णं धर्षकरूपं भङ्गुरावतां भङ्गुरकर्मयुक्तानां रक्षसां दिवेदिवे प्रत्यहं हन्तारं हिंसितारं त्वा त्वां वयं पायुनामधेया भारद्वाजा रक्षसां हननाय परि धीमहि॥२२॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः