मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ८७, ऋक् २३

संहिता

वि॒षेण॑ भङ्गु॒राव॑त॒ः प्रति॑ ष्म र॒क्षसो॑ दह ।
अग्ने॑ ति॒ग्मेन॑ शो॒चिषा॒ तपु॑रग्राभिरृ॒ष्टिभि॑ः ॥

पदपाठः

वि॒षेण॑ । भ॒ङ्गु॒रऽव॑तः । प्रति॑ । स्म॒ । र॒क्षसः॑ । द॒ह॒ ।
अग्ने॑ । ति॒ग्मेन॑ । शो॒चिषा॑ । तपुः॑ऽअग्राभिः । ऋ॒ष्टिऽभिः॑ ॥

सायणभाष्यम्

हे अग्ने त्वं भङ्गुरावतो भञ्जनकर्मयुक्तान्रक्षसो राक्षसान्विषेण व्याप्तेन तिग्मेन तीक्ष्णेन शोचिषा तेजसा प्रति दह। भस्मीकुरु। तथा तपुरग्राभिस्तपनशीलाग्राभिरृष्टिभिः। ऋष्टय आयुधविशेषाः। ताभिरपि प्रति दह॥२३॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः