मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ८७, ऋक् २४

संहिता

प्रत्य॑ग्ने मिथु॒ना द॑ह यातु॒धाना॑ किमी॒दिना॑ ।
सं त्वा॑ शिशामि जागृ॒ह्यद॑ब्धं विप्र॒ मन्म॑भिः ॥

पदपाठः

प्रति॑ । अ॒ग्ने॒ । मि॒थु॒ना । द॒ह॒ । या॒तु॒ऽधाना॑ । कि॒मी॒दिना॑ ।
सम् । त्वा॒ । शि॒शा॒मि॒ । जा॒गृ॒हि । अद॑ब्धम् । वि॒प्र॒ । मन्म॑ऽभिः ॥

सायणभाष्यम्

हे अग्ने त्वं मिथुना मिथुनभूतानि किमीदिना। किमिदानीमिति ये चरन्ति ते किमीदिनः। तान्। तथा च यास्कः। किमीदिने किमिदानीमिति चरते किमिदं किमिदमिति वा। नि. ६-११। इति। यातुधाना यातुधानान्राक्षसान्प्रति दह। किञ्च हे विप्र मेधाविन्नग्ने अदब्धं केनाप्यहिंसितं त्वा त्वां मन्मभिः स्तुतिभिरहं सं शिशामि। स्त्ॐईत्यर्थः। अतस्त्वं जागृहि। निद्रां मा कुरु। बुध्यस्वेत्यर्थः।।२४॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः