मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ८७, ऋक् २५

संहिता

प्रत्य॑ग्ने॒ हर॑सा॒ हरः॑ शृणी॒हि वि॒श्वत॒ः प्रति॑ ।
या॒तु॒धान॑स्य र॒क्षसो॒ बलं॒ वि रु॑ज वी॒र्य॑म् ॥

पदपाठः

प्रति॑ । अ॒ग्ने॒ । हर॑सा । हरः॑ । शृ॒णी॒हि । वि॒श्वतः॑ । प्रति॑ ।
या॒तु॒ऽधान॑स्य । र॒क्षसः॑ । बल॑म् । वि । रु॒ज॒ । वी॒र्य॑म् ॥

सायणभाष्यम्

हे अग्ने हरसा त्वदीयेन तेजसा। तथा च यास्कः। हरो हरतेर्ज्योतिर्हर उच्यते नि. ४-१९। इति। यातुधानस्य राक्षसस्य हरो हरणशीलं बलं प्रति शृणीहि। नाशयेत्यर्थः। तथा रक्षसो राक्षसस्य वीर्यं च वि रुज। भञ्जय॥२६॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः