मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ८८, ऋक् १

संहिता

ह॒विष्पान्त॑म॒जरं॑ स्व॒र्विदि॑ दिवि॒स्पृश्याहु॑तं॒ जुष्ट॑म॒ग्नौ ।
तस्य॒ भर्म॑णे॒ भुव॑नाय दे॒वा धर्म॑णे॒ कं स्व॒धया॑ पप्रथन्त ॥

पदपाठः

ह॒विः । पान्त॑म् । अ॒जर॑म् । स्वः॒ऽविदि॑ । दि॒वि॒ऽस्पृशि॑ । आऽहु॑तम् । जुष्ट॑म् । अ॒ग्नौ ।
तस्य॑ । भर्म॑णे । भुव॑नाय । दे॒वाः । धर्म॑णे । कम् । स्व॒धया॑ । प॒प्र॒थ॒न्त॒ ॥

सायणभाष्यम्

हविष्पान्तमित्येकोनविंशत्युचं सूक्तं चतुर्थं त्रैष्टुभम्। मूर्धन्वानृषिः। स चाङ्गिरसो वामदेव्यो वा। सूर्यो वैश्वानरगुणकोऽग्निश्च समुदितो देवता। तथा चानुक्रान्तम्। हविरेकोनाङ्गिरसो मूर्धन्वान्वामदेव्यो वा सौर्यवैश्वानरीयमिति। व्यूढस्य दशरात्रस्य पञ्चमेऽहन्याग्निमारुत एतद्वैश्वानरीयनिविद्धानम्। सूत्रितं च। हविष्पान्तमग्निर्होता गृहपतिः स राजा। आ. ८-८। इति॥

पान्तं पानीयं सोमात्मकमजरं जरारहितं जुष्तं देवानां प्रियं यद्धविः स्वर्विदि सूर्यस्य वेदितरि दिविस्पृशि दिवि स्पष्टर्यग्नावाहुतमभिहुतं तस्य सोमात्मकस्य हविषो भर्मणे भरणाय भुवनाय भावनाय च धर्मणे धारनाय च कं सर्वस्य सुखकरमिममग्निं देवाः स्वधयान्नेन पप्रथन्त। प्रथयन्ति। तथा च यास्कः। हविर्यत्पानीयमजरं सूर्यविदि दिविस्पृश्यभिहुतं जुष्टमग्नौ तस्य भरणाय च भावनाय च धारणाय द्येतेभ्यः सर्वेभ्यः कर्मभ्यो देवा इममग्निमन्नेनापप्रथन्त। नि. ७-२५। इति॥१॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०