मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ८८, ऋक् २

संहिता

गी॒र्णं भुव॑नं॒ तम॒साप॑गूळ्हमा॒विः स्व॑रभवज्जा॒ते अ॒ग्नौ ।
तस्य॑ दे॒वाः पृ॑थि॒वी द्यौरु॒तापोऽर॑णय॒न्नोष॑धीः स॒ख्ये अ॑स्य ॥

पदपाठः

गी॒र्णम् । भुव॑नम् । तम॑सा । अप॑ऽगूळ्हम् । आ॒विः । स्वः॑ । अ॒भ॒व॒त् । जा॒ते । अ॒ग्नौ ।
तस्य॑ । दे॒वाः । पृ॒थि॒वी । द्यौः । उ॒त । आपः॑ । अर॑णयन् । ओष॑धीः । स॒ख्ये । अ॒स्य॒ ॥

सायणभाष्यम्

गीर्णं पूर्वं निगीर्णं तमसन्धकारेणापगूढमाच्छादितं स्वः सर्वं भुवनमग्नौ यस्मिन्वैश्वानरे जात उत्पन्ने सत्याविरभवत् आविर्भवति तस्यास्य वैश्वानरस्याग्नेः सख्ये सखिकर्मणि देवा इन्द्रादयः पृथिवी भूमिश्च द्यौश्चापोऽन्तरिक्षं चोदकानि वौषधीरोषध्यश्चारणयत्। अरमन्त। प्रीतिं कृतवन्त इत्यर्थः॥२॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०