मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ८८, ऋक् ३

संहिता

दे॒वेभि॒र्न्वि॑षि॒तो य॒ज्ञिये॑भिर॒ग्निं स्तो॑षाण्य॒जरं॑ बृ॒हन्त॑म् ।
यो भा॒नुना॑ पृथि॒वीं द्यामु॒तेमामा॑त॒तान॒ रोद॑सी अ॒न्तरि॑क्षम् ॥

पदपाठः

दे॒वेभिः॑ । नु । इ॒षि॒तः । य॒ज्ञिये॑भिः । अ॒ग्निम् । स्तो॒षा॒णि॒ । अ॒जर॑म् । बृ॒हन्त॑म् ।
यः । भा॒नुना॑ । पृ॒थि॒वीम् । द्याम् । उ॒त । इ॒माम् । आ॒ऽत॒तान॑ । रोद॑सी॒ इति॑ । अ॒न्तरि॑क्षम् ॥

सायणभाष्यम्

यज्ञियेभिर्यज्ञार्हैर्देवेभिर्देवैरिन्द्रादिभिर्नु क्षिप्रमिषितोऽहमजरं जरारहितं बृहन्तं महान्तमग्निं तं वैश्वानराग्निं स्तोषाणि। स्तॊषामि। यो वैश्वानराग्निर्भानुना तेजसा पृथिवीं भूमिमुतापि चेमां द्यां दिवं चाततान आतनोति। तदेव दर्शयति। रोदसी द्यावापृथिव्यौ चाततान अतनोति। विस्तारयतीत्यर्थः॥३॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०