मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ८८, ऋक् ४

संहिता

यो होतासी॑त्प्रथ॒मो दे॒वजु॑ष्टो॒ यं स॒माञ्ज॒न्नाज्ये॑ना वृणा॒नाः ।
स प॑त॒त्री॑त्व॒रं स्था जग॒द्यच्छ्वा॒त्रम॒ग्निर॑कृणोज्जा॒तवे॑दाः ॥

पदपाठः

यः । होता॑ । आसी॑त् । प्र॒थ॒मः । दे॒वऽजु॑ष्टः । यम् । स॒म्ऽआञ्ज॑न् । आज्ये॑न । वृ॒णा॒नाः ।
सः । प॒त॒त्रि । इ॒त्व॒रम् । स्थाः । जग॑त् । यत् । श्वा॒त्रम् । अ॒ग्निः । अ॒कृ॒णो॒त् । जा॒तऽवे॑दाः ॥

सायणभाष्यम्

यो वैश्वानरोऽग्निर्देवजुष्तो दैवैः सेवितः प्रथमो मुख्यो होतासीत् अभूत् यं च वैश्वानराग्निं यजमाना वृणाना आज्येन समाञ्जन् समज्ञति जातवेदा जातप्रज्ञो जातधनो वा वैश्वानरोऽग्निः पतत्रि पतनशीलं पक्षिजातमित्वरं गमनशीलं सरीसृपादिकं स्थाः स्थावरं वृक्षादिरूपं च जगत्। स्थावरं जङ्गमं च यज्जगदित्यर्थः। श्वात्रं क्षिप्रमेवाकृणोत् अजनयत्। तथा च यास्कः। स पतत्रि चेत्वरं स्थावरं जङ्गमं च यत्तत्क्षिप्रमग्निरकरोज्जातवेदाः। नि. ५-३। इति॥४॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०