मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ८८, ऋक् ५

संहिता

यज्जा॑तवेदो॒ भुव॑नस्य मू॒र्धन्नति॑ष्ठो अग्ने स॒ह रो॑च॒नेन॑ ।
तं त्वा॑हेम म॒तिभि॑र्गी॒र्भिरु॒क्थैः स य॒ज्ञियो॑ अभवो रोदसि॒प्राः ॥

पदपाठः

यत् । जा॒त॒ऽवे॒दः॒ । भुव॑नस्य । मू॒र्धन् । अति॑ष्ठः । अ॒ग्ने॒ । स॒ह । रो॒च॒नेन॑ ।
तम् । त्वा॒ । अ॒हे॒म॒ । म॒तिऽभिः॑ । गीः॒ऽभिः । उ॒क्थैः । सः । य॒ज्ञियः॑ । अ॒भ॒वः॒ । रो॒द॒सि॒ऽप्राः ॥

सायणभाष्यम्

हे जातवेदो जातप्रज्ञाग्ने यद्यस्त्वं भुवनस्य त्रैलोक्यस्य मूर्धन् मूर्धनि रोचनेनादित्येन सहातिष्ठः स्थितवानसि तम् वैश्वानराग्निं त्वा त्वां मतिभिरर्चनीयाभिर्गीभिः स्तुतिभिरुक्थैः शस्त्रैश्चाहेम। प्रपद्यामहे। हि गताविति धातुः। स वैश्वानरस्त्वं रोदसिप्रा द्यावापृथिव्योः पूरयित यज्ञियो यज्ञार्हश्चाभवः। भवसि॥५॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०