मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ८८, ऋक् ६

संहिता

मू॒र्धा भु॒वो भ॑वति॒ नक्त॑म॒ग्निस्तत॒ः सूर्यो॑ जायते प्रा॒तरु॒द्यन् ।
मा॒यामू॒ तु य॒ज्ञिया॑नामे॒तामपो॒ यत्तूर्णि॒श्चर॑ति प्रजा॒नन् ॥

पदपाठः

मू॒र्धा । भु॒वः । भ॒व॒ति॒ । नक्त॑म् । अ॒ग्निः । ततः॑ । सूर्यः॑ । जा॒य॒ते॒ । प्रा॒तः । उ॒त्ऽयन् ।
मा॒याम् । ऊं॒ इति॑ । तु । य॒ज्ञिया॑नाम् । ए॒ताम् । अपः॑ । यत् । तूर्णिः॑ । चर॑ति । प्र॒ऽजा॒नन् ॥

सायणभाष्यम्

अग्निर्वैश्वानरोऽग्निर्नक्तं रात्रौ भुवो भूतजातस्य मूर्धा शिरोवत्प्रधानभूतो भवति। रात्रौ सर्वप्राणिनामालोकस्य तदधीनत्वात्। ततो रात्रेरनन्तरं प्रातरुद्यन् सूर्योजायते। अहनि स एव वैश्वानरोऽग्निः सूर्यो भवतीत्यर्थः। किञ्च यज्ञियानां यज्ञसंपादिनां देवानां मायामु प्रज्ञामेवैतां मन्यन्ते कवय इति शेषः। यत्प्रजानन् प्रज्ञायमानः सूर्यस्तूर्णिस्त्वरमाणः सन्नपोऽन्तरिक्षं कर्म वा चरति। तथा च यास्कः। मूर्धा मूर्तमस्मिन्धीयते मूर्धा यः सर्वेषां भूतानां भवति नक्तमग्निस्ततः सूर्यो जायते प्रातरुद्यन्त्स एव प्रज्ञां त्वेतां मन्यन्ते यज्ञियानां देवानां यज्ञसम्पादिनामपो यत्कर्म चरति प्रजानन्त्सर्वाणि स्थानान्यनुसञ्चरति त्वरमाणः। नि. ७-२७। इति॥६॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११