मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ८८, ऋक् ७

संहिता

दृ॒शेन्यो॒ यो म॑हि॒ना समि॒द्धोऽरो॑चत दि॒वियो॑निर्वि॒भावा॑ ।
तस्मि॑न्न॒ग्नौ सू॑क्तवा॒केन॑ दे॒वा ह॒विर्विश्व॒ आजु॑हवुस्तनू॒पाः ॥

पदपाठः

दृ॒शेन्यः॑ । यः । म॒हि॒ना । सम्ऽइ॑द्धः । अरो॑चत । दि॒विऽयो॑निः । वि॒भाऽवा॑ ।
तस्मि॑न् । अ॒ग्नौ । सू॒क्त॒ऽवा॒केन॑ । दे॒वाः । ह॒विः । विश्वे॑ । आ । अ॒जु॒ह॒वुः॒ । त॒नू॒ऽपाः ॥

सायणभाष्यम्

यो वैश्वानरोऽग्निर्महिना महत्त्वेन दृशेन्यः सर्वदर्शनीयः समिद्धः सम्यग्दीप्तो दिवियोनिर्द्युस्थानो विभावा दीप्तिमांश्च सन्नरोचत दीप्यते तस्मिन्वैश्वानरेऽग्नौ तनूपाः शरीराणां रक्षका विश्वे सर्वे देवाः सूक्तवाकेनेदं द्यावापृथिवी इत्यादिवाक्येन स्तोत्राणां वचनेन वा हविराजुहवुः। आभिमुख्येन जुहुवुः॥७॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११