विश्व॑स्मा अ॒ग्निं भुव॑नाय दे॒वा वै॑श्वान॒रं के॒तुमह्ना॑मकृण्वन् ।
आ यस्त॒तानो॒षसो॑ विभा॒तीरपो॑ ऊर्णोति॒ तमो॑ अ॒र्चिषा॒ यन् ॥
विश्व॑स्मै । अ॒ग्निम् । भुव॑नाय । दे॒वाः । वै॒श्वा॒न॒रम् । के॒तुम् । अह्ना॑म् । अ॒कृ॒ण्व॒न् ।
आ । यः । त॒तान॑ । उ॒षसः॑ । वि॒ऽभा॒तीः । अपो॒ इति॑ । ऊ॒र्णो॒ति॒ । तमः॑ । अ॒र्चिषा॑ । यन् ॥
देवा इन्द्रादयो विश्वस्मै भुवनाय वैश्वानरं विश्वनरहितमग्निमह्नां दिवसानां केतुं प्रज्ञापकमकृण्वन्। अकुर्वन्। यो वैश्वानरोऽग्निरुषसो विभातीर्विविधं दीप्यमाना आ ततान विस्तारयति। किञ्च सोऽयं यन्गच्छंस्तमोऽन्धकारमर्चिषा तेजसापो ऊर्णोति। अपगमयति॥१२॥