मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ८८, ऋक् १३

संहिता

वै॒श्वा॒न॒रं क॒वयो॑ य॒ज्ञिया॑सो॒ऽग्निं दे॒वा अ॑जनयन्नजु॒र्यम् ।
नक्ष॑त्रं प्र॒त्नममि॑नच्चरि॒ष्णु य॒क्षस्याध्य॑क्षं तवि॒षं बृ॒हन्त॑म् ॥

पदपाठः

वै॒श्वा॒न॒रम् । क॒वयः॑ । य॒ज्ञियाः॑ । अ॒ग्निम् । दे॒वाः । अ॒ज॒न॒य॒न् । अ॒जु॒र्यम् ।
नक्ष॑त्रम् । प्र॒त्नम् । अमि॑नत् । च॒रि॒ष्णु । य॒क्षस्य॑ । अधि॑ऽअक्षम् । त॒वि॒षम् । बृ॒हन्त॑म् ॥

सायणभाष्यम्

कवयो मेधाविनो यज्ञियासो यज्ञार्हा यज्ञसंपादिनो वा देवा अजुर्यं जरावर्जितमहिंस्यं वा वैश्वानरम् विश्वनरहितं सूर्यात्मकमग्निमजनयन्। उत्पादितवन्तः। स च देवैरुत्पादितोऽग्निर्नक्षत्रं कृत्तिकादि प्रत्नह् पुराणं चरिष्णु चरणशीलं यक्शस्य। यक्षतिः पूजार्थः। प्रयक्षमित्यादौ दर्शनात्। ऋ. २-५-१। यक्षस्य पूज्यस्य देवस्याध्यक्षं प्रत्यक्शं स्वामिनं वा तविषम् वृद्ढं बृहन्तम् महान्तममिनत्। हिंसितवान्। तेजसाभिभूतवानित्यर्थः॥१३॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२