मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ८८, ऋक् १४

संहिता

वै॒श्वा॒न॒रं वि॒श्वहा॑ दीदि॒वांसं॒ मन्त्रै॑र॒ग्निं क॒विमच्छा॑ वदामः ।
यो म॑हि॒म्ना प॑रिब॒भूवो॒र्वी उ॒तावस्ता॑दु॒त दे॒वः प॒रस्ता॑त् ॥

पदपाठः

वै॒श्वा॒न॒रम् । वि॒श्वहा॑ । दी॒दि॒ऽवांस॑म् । मन्त्रैः॑ । अ॒ग्निम् । क॒विम् । अच्छ॑ । व॒दा॒मः॒ ।
यः । म॒हि॒म्ना । प॒रि॒ऽब॒भूव॑ । उ॒र्वी इति॑ । उ॒त । अ॒वस्ता॑त् । उ॒त । दे॒वः । प॒रस्ता॑त् ॥

सायणभाष्यम्

विश्वाहा सर्वदा दीदिवांसम् दीप्तं कविं क्रान्तप्रज्ञं वैश्वानरमग्निं मन्त्रैरच्छा वदामः। अभिष्टुमः। यो वैश्वानरोऽग्निर्महिम्ना महत्त्वेनोर्वी द्यावापृथिव्यौ परिबभूव परिभवति। उतापि चायमवस्तादधस्तात्तपति। उतापि चायं सूर्यात्मको देवः परस्तादुपरिष्टाच्च तपतीत्यर्थः॥१४॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२