मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ८८, ऋक् १५

संहिता

द्वे स्रु॒ती अ॑शृणवं पितॄ॒णाम॒हं दे॒वाना॑मु॒त मर्त्या॑नाम् ।
ताभ्या॑मि॒दं विश्व॒मेज॒त्समे॑ति॒ यद॑न्त॒रा पि॒तरं॑ मा॒तरं॑ च ॥

पदपाठः

द्वे इति॑ । स्रु॒ती इति॑ । अ॒शृ॒ण॒व॒म् । पि॒तॄ॒णाम् । अ॒हम् । दे॒वाना॑म् । उ॒त । मर्त्या॑नाम् ।
ताभ्या॑म् । इ॒दम् । विश्व॑म् । एज॑त् । सम् । ए॒ति॒ । यत् । अ॒न्त॒रा । पि॒तर॑म् । मा॒तर॑म् । च॒ ॥

सायणभाष्यम्

पितॄणाम् देवानाम् चोतापि मर्त्यानां मनुष्याणां च द्वे स्रुती द्वौ मार्गौ देवयानपितृयाणाख्यावहमशृणवम् । अश्रौषम् । यद्विश्वं पालकत्वेन पितृभूतां द्यां मातरम् च धारकत्वेन मातृभूतां पृथिवीं चान्तरा द्यावापृथिवीमध्ये भवति तदिदं विश्वमग्निना संस्कृतं स देजद्देवलोकं पितृलोकं च गच्छत् तभ्यां देवयानपितृयाणाख्याभ्यां मार्गाभ्यां समेति। गच्छति। तौ च मार्गौ भवता दर्शितौ॥ भ. गी. ८-२४, २५, २६॥१५॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२