मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ८८, ऋक् १६

संहिता

द्वे स॑मी॒ची बि॑भृत॒श्चर॑न्तं शीर्ष॒तो जा॒तं मन॑सा॒ विमृ॑ष्टम् ।
स प्र॒त्यङ्विश्वा॒ भुव॑नानि तस्था॒वप्र॑युच्छन्त॒रणि॒र्भ्राज॑मानः ॥

पदपाठः

द्वे इति॑ । स॒मी॒ची इति॑ सम्ऽई॒ची । बि॒भृ॒तः॒ । चर॑न्तम् । शी॒र्ष॒तः । जा॒तम् । मन॑सा । विऽमृ॑ष्टम् ।
सः । प्र॒त्यङ् । विश्वा॑ । भुव॑नानि । त॒स्थौ॒ । अप्र॑ऽयुच्छन् । त॒रणिः॑ । भ्राज॑मानः ॥

सायणभाष्यम्

अग्निर्ज्योतिरहः शुक्लः शण्मासा उत्तरायणम्। तत्र प्रयता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः॥

धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम् । तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते॥

शुक्लकृष्णे गती ह्येते जगतः शाश्वते मते। एकया यात्यनावृत्तिमन्यथा वर्तते पुनः॥

नैते सृती पार्थ जानन्योगी मुह्यति कश्चनेति॥

समीची सङ्गते द्वे द्यावापृथिव्यौ चरन्तं गच्छन्तं शीर्षतः शिरसो जातमुत्पन्नम् । तथा च निगमान्तरम् । उत मन्येऽहमेनमनयोर्हि शिरस्तोऽयं प्रातर्जायत इति। यद्वा। सर्वशिरोभूतादादित्याज्जातमित्यर्थः। मनसा। मन्यतिरर्चतिकर्मा। अर्चनीयया स्तुत्या विमृष्टं शोधितं संस्कृतमग्निं बिभृतः। धारयतः। सोऽप्रयुच्छन्नप्रमाद्यंस्तरनीः क्षिप्रकारी भ्राजमानो दीप्यमानोऽग्निर्विश्वानि भुवनानि प्रत्यङ्ङभिमुखस्तस्थौ। तिष्ठति। तथा च श्रूयते। तस्मात्सर्व एव मन्यन्ते मां प्रत्युदगादिति॥१६॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३