मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ८८, ऋक् १७

संहिता

यत्रा॒ वदे॑ते॒ अव॑र॒ः पर॑श्च यज्ञ॒न्यो॑ः कत॒रो नौ॒ वि वे॑द ।
आ शे॑कु॒रित्स॑ध॒मादं॒ सखा॑यो॒ नक्ष॑न्त य॒ज्ञं क इ॒दं वि वो॑चत् ॥

पदपाठः

यत्र॑ । वदे॑ते॒ इति॑ । अव॑रः । परः॑ । च॒ । य॒ज्ञ॒ऽन्योः॑ । क॒त॒रः । नौ॒ । वि । वे॒द॒ ।
आ । शे॒कुः॒ । इत् । स॒ध॒ऽमाद॑म् । सखा॑यः । नक्ष॑न्त । य॒ज्ञम् । कः । इ॒दम् । वि । वो॒च॒त् ॥

सायणभाष्यम्

यत्र यस्मिन्कालेऽवरः पार्थिवोऽग्निर्दैव्यो होता परश्च मध्यमो वाहुश्चोभौ वदेते विवादं कुर्वाते यज्ञन्योर्यज्ञस्य नेत्रोर्नावावयोर्मध्ये कतरो भूयिष्थं यज्ञं वि वेद वेत्ति तत्र सखायह् समानख्याना ऋत्विजः सधमादं यज्ञमा शेकुः। कर्तुं शक्नुवन्ति। तथा यज्ञं नक्षन्त अश्नुवतेऽनुतिष्ठन्ति च ये तेषां विदुषां यज्ञमश्नुवानानां मध्ये को विद्वाननुष्थाता वेदमस्य विवादस्य निर्णयरूपं वाक्यं वि वोचत्। ब्रविति। माध्यमिकमिममग्निं ब्रवीति। तथा च यास्कः। यत्र विवदेते देव्यौ होतारावयं चाग्निरसौ च मध्यमः करतो नौ यज्ञे भूयो वेदेत्याशक्नुवन्ति तत्सहमदनं समानख्याना ऋत्विजस्तेषां यज्ञं समश्नुवानानां को न इदं विवक्ष्यति। नि. ७-३०॥ इति॥ १७॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३