मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ८८, ऋक् १८

संहिता

कत्य॒ग्नय॒ः कति॒ सूर्या॑स॒ः कत्यु॒षास॒ः कत्यु॑ स्वि॒दापः॑ ।
नोप॒स्पिजं॑ वः पितरो वदामि पृ॒च्छामि॑ वः कवयो वि॒द्मने॒ कम् ॥

पदपाठः

कति॑ । अ॒ग्नयः॑ । कति॑ । सूर्या॑सः । कति॑ । उ॒षसः॑ । कति॑ । ऊं॒ इति॑ । स्वि॒त् । आपः॑ ।
न । उ॒प॒ऽस्पिज॑म् । वः॒ । पि॒त॒रः॒ । व॒दा॒मि॒ । पृ॒च्छामि॑ । वः॒ । क॒व॒यः॒ । वि॒द्मने॑ । कम् ॥

सायणभाष्यम्

एवं विवदमानावग्निवायू पितृन्प्रश्नमेयतुः। तत्र मध्यमस्तान्पृच्छति। क्त्यग्नयः। अग्नयः कति कतिसङ्ख्याकाः। सूर्यासः सूर्याश्च कतिसङ्ख्याकाः। उषास उषसश्च कतिसङ्ख्याकाः। आपश्च कति। उ इति पूरणः। स्विच्छब्दोऽत्र विचारणार्थः। हे पितरः वो युष्माकमुपस्पिजम् । उपस्पिजमिति स्पर्धायुक्तं वचनमुच्यते। पूर्वोक्तं प्रश्नवचनमेतन्न वदामि किन्तर्ह्यहमजानन् हे कवयो मेधाविनः युष्मान्विह्मने विज्ञानाय कं सुखं स्वरूपपर्यालोचन क्लेशमन्तरेण पृच्छामि। अत्रोत्रराणि वालखिल्य संहितायां दर्शितानि। एक एवाग्निर्बहुधा समिद्ध एकः सूर्यो विश्वमनु प्रभूतः। एकैवोषाः सर्वमिदं वि भात्येकं वा इदं वि बभूव सर्वम् । ऋ. ८-५--२। इति॥१८॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३