मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ८८, ऋक् १९

संहिता

या॒व॒न्मा॒त्रमु॒षसो॒ न प्रती॑कं सुप॒र्ण्यो॒३॒॑ वस॑ते मातरिश्वः ।
ताव॑द्दधा॒त्युप॑ य॒ज्ञमा॒यन्ब्रा॑ह्म॒णो होतु॒रव॑रो नि॒षीद॑न् ॥

पदपाठः

या॒व॒त्ऽमा॒त्रम् । उ॒षसः॑ । न । प्रती॑कम् । सु॒ऽप॒र्ण्यः॑ । वस॑ते । मा॒त॒रि॒श्वः॒ ।
ताव॑त् । द॒धा॒ति॒ । उप॑ । य॒ज्ञम् । आ॒ऽयन् । ब्रा॒ह्म॒णः । होतुः॑ । अव॑रः । नि॒ऽसीद॑न् ॥

सायणभाष्यम्

प्रकृतस्य वैश्वानरस्य विषये यः प्रश्नस्तस्य निर्णयमनया वदन्ति। हे वातरिश्वो मातर्यन्तरिक्षे श्वसन् माध्यमिक वायो यावन्मात्रं यावदेव सुपर्ण्यः सुपतना रात्रय उषसः प्रतीकं मुखं प्रकाशाख्यं दर्शणं वा। नेति पूरङः । वसते आच्छादयन्ति तावदेव ब्राह्मणो होतावरो निकृष्टो होतुरस्याग्नेर्वैश्वानरस्य दैव्यस्य होतुर्निषीदन् हौत्रं कर्म कर्तुमुपविशन् यज्ञमायन्नुपगच्छन्नुपदधाति। होतृकर्मस्वबुद्धौ धारयति। तथा च यास्कः। यावन्मात्रमुषसः प्रत्यक्तं भवति प्रतिदर्शनमिति वास्त्युपमानस्य सम्प्रत्यर्थे प्रयोग इहेव निधीहीति यथा सुपर्ण्यः सुपतना एता रात्रयो वसते मातरिश्वञ्ज्योतिर्वर्णस्य तावदुपदधाति यज्ञमागच्छन्ब्राह्मणो दोतास्याग्नेर्होतुरवरो निषीदन् होतृजपस्त्वनग्निर्वैश्वानरीयो भवति॥ नि. ७-३१॥ इति॥ १९॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३