मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ८९, ऋक् १

संहिता

इन्द्रं॑ स्तवा॒ नृत॑मं॒ यस्य॑ म॒ह्ना वि॑बबा॒धे रो॑च॒ना वि ज्मो अन्ता॑न् ।
आ यः प॒प्रौ च॑र्षणी॒धृद्वरो॑भि॒ः प्र सिन्धु॑भ्यो रिरिचा॒नो म॑हि॒त्वा ॥

पदपाठः

इन्द्र॑म् । स्त॒व॒ । नृऽत॑मम् । यस्य॑ । म॒ह्ना । वि॒ऽब॒बा॒धे । रो॒च॒ना । वि । ज्मः । अन्ता॑न् ।
आ । यः । प॒प्रौ । च॒र्ष॒णि॒ऽधृत् । वरः॑ऽभिः । प्र । सिन्धु॑ऽभ्यः । रि॒रि॒चा॒नः । म॒हि॒ऽत्वा ॥

सायणभाष्यम्

हे स्तोतः त्वं नृतमं नेतृतममिन्द्रं स्तव। स्तुहि। यस्येन्द्रस्य मह्ना महत्त्वम्। विभक्तिव्यत्ययः। रोचना परेषां तेजांसि विबबाधे विबाधते। अभिभवतीत्यर्थः। वि ज्मः पृथिव्याश्चान्तान्पर्यन्तानभिभवति। यश्चेन्द्रश्चर्षणीर्धृन्मनुष्याणां धर्ता सिन्धुभ्यः समुद्रेभ्योऽपि महित्वा महत्त्वेन प्र रिरिचानः प्रवर्धमानश्च सन् वरोभिस्तमसाम् वरकैस्तेजोभिरा पप्रौ द्यावापृथिव्यावापूरयति॥१॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४