मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ८९, ऋक् २

संहिता

स सूर्य॒ः पर्यु॒रू वरां॒स्येन्द्रो॑ ववृत्या॒द्रथ्ये॑व च॒क्रा ।
अति॑ष्ठन्तमप॒स्यं१॒॑ न सर्गं॑ कृ॒ष्णा तमां॑सि॒ त्विष्या॑ जघान ॥

पदपाठः

सः । सूर्यः॑ । परि॑ । उ॒रु । वरां॑सि । आ । इन्द्रः॑ । व॒वृ॒त्या॒त् । रथ्या॑ऽइव । च॒क्रा ।
अति॑ष्ठन्तम् । अ॒प॒स्य॑म् । न । सर्ग॑म् । कृ॒ष्णा । तमां॑सि । त्विष्या॑ । ज॒घा॒न॒ ॥

सायणभाष्यम्

सूर्यः सुवीर्यः स प्रसिद्ध इन्द्र उरु बहूनि वरांसि तेजांसि पर्या ववृत्यात्। पर्यावर्तयति। तत्र दृष्टान्तः। रथ्येव यथा सारथी रथसम्बन्धीनि चक्रा चक्राण्यावर्तयति तद्वदित्यर्थः। किञ्च सोऽयमतिष्थन्तं शीघ्रं गच्छन्तमपस्यं न कर्मण्यमिव सर्गम्। सृज्यत इति सर्गोऽश्वः। कृष्णानि तमांसि त्विष्या दीप्त्या जघान। हन्ति॥२॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४